प्रकृष्टम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रकृष्टम्, त्रि, (प्रकृष्यते इति । प्र + कृष + क्त ।) प्रकर्षयुक्तम् । तत्पर्य्यायः । मुख्यम् २ प्रमुखम् ३ प्रवर्हम् ४ वर्य्यम् ५ वरेण्यम् ६ प्रवरम् ७ पुरो- गम् ८ अनुत्तरम् ९ प्राग्रहरम् १० प्रवेकम् ११ प्रधानम् १२ अग्रेसरम् १३ उत्तमम् १४ अग्रम् १५ ग्रामणीः १६ अग्रणीः १७ अग्रि- मम् १८ जात्यम् १९ अग्र्यम् २० अनुत्तमम् २१ अनवरार्द्ध्यम् २२ प्रेष्ठम् २३ परार्द्ध्यम् २४ परम् २५ । इति हेमचन्द्रः । ६ । ७४ ॥ (यथा, मनुः । ७ । १७० । “यदा प्रकृष्टा मन्येत सर्व्वास्तु प्रकृतीर्भृशम् । अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम् ॥” आकृष्टम् । यथा, देवीभागवते । १ । ९ । ८२ । “रथाङ्गेन तदा च्छिन्ने विष्णुना प्रभविष्णुना । जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः ॥”)
