सामग्री पर जाएँ

प्रकोष्ठः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रकोष्ठः, पुं, (पुकुष्यतेऽनेनेति । प्र + कुष निष्कर्षे + “उषिकुषीति ।” उणा० २ । ४ । इति स्थन् ।) कफोणेरधोमणिबन्धपर्य्यन्तहस्तभागः । इत्य- मरः । २ । ६ । ८० ॥ (यथा, रघुः । ३ । ५९ । “ततः प्रकोष्ठ हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्द्धमुखेन पत्रिणा शरासनज्यामलुनाद्विडौजसः ॥”) गृहद्वारपिण्डकम् । वीथी इति विहोन्द इति च ख्यातम् । इति प्रघाणशब्दटीकायां भरत- मुकुटमथुरेशाः ॥ (यथा, मानवे । ७ । २२३ । श्लोकटीकायां कुल्लूकभट्टः । “ततः सन्ध्योपासनं कृत्वा तस्मात् प्रदेशात् कक्षान्तरं विविक्तप्रकोष्ठावकाशमन्यद्गत्वा गृहाभ्यन्तरे धृतशस्त्रो रहस्याभिधायिनां चराणां स्वव्यापारं शृणुयात् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रकोष्ठः [prakōṣṭhḥ], 1 The fore-arm, the part above the wrist; वामप्रकोष्ठार्पितहेमवेत्रः Ku.3.41; कनकवलयभ्रंशरिक्तप्रकोष्ठः Me.2; R.3.59; Ś.6.6; कनकवलयभूषितप्रकोष्ठैः Bu. Ch.5.81.

The room near the gate of a palace; Mu.1.

A court in a house, a quadrangle or square (surrounded by buildings); इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः &c. Mk.4.

A part of a door-frame.

"https://sa.wiktionary.org/w/index.php?title=प्रकोष्ठः&oldid=501160" इत्यस्माद् प्रतिप्राप्तम्