प्रक्षेपः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रक्षेपः, पुं, (प्र + क्षिप + घञ् ।) औषधादिषु क्षेपणीयद्रव्यम् । यथा, -- “प्रक्षेपः पादिकः क्वाथ्यात् स्नेहे कल्कसमो मतः । षोडशाष्टचतुर्भागं वातपित्तकफार्त्तिषु ॥ क्षौद्रं कषाये दातव्यं विपरीता तु शर्करा । मात्रा क्षौद्रघृतादीनां स्नेहे क्वाथे च चूर्णवत् ॥ माषिकं हिङ्गु सिन्धूत्थं जरणाद्यास्तु शाणिकाः ॥” इति वैद्यकपरिभाषा ॥ विक्षेपः । यथा, “समित्प्रक्षेपान्तं कर्म्म कृत्वा ।” इति भवदेवभट्टः ॥ (प्रहरणम् । यथा, भाग- वते । ४ । २९ । १९ । “मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूवरः । पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रक्षेपः [prakṣēpḥ], 1 Throwing forward, projecting.
A throw, cast.
Scattering upon.
Spurious insertion, interpolation.
The box of a carriage.
The sum deposited by each member of a commercial company.
Anything added to drugs in decoction.
