प्रगद्यादि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रगद्यादि¦ पु॰ चतुरर्थ्यां ञ्यपत्ययनिमित्ते शब्दगणे स चगणः पा॰ ग॰ उक्तो यथा
“पगदिन् मगदिन् मगदिन्कविल खण्ठित गदित चूडार मडार मन्दार कोविदार”
४४
९९ पृष्ठस्थप्रसाधनशब्दस्य परिशिष्टम्प्रसाधनीकरणप्रकारश्च युक्तिकल्पतरावुक्तो यथा(
“प्रसाधनी दिङ्नवनागसप्तसंख्याभिरुक्ताङ्गुलिभिःक्रमेण। चतुर्विधानां पृथिवीपतीनां सम्पत्तिसौभाग्य-यशःसमृद्विदा। काष्ठजा घातुजा चैवा शृङ्गजा च यथा-क्रममु। जाङ्गलानूपसामान्यदेशजानां महीभुजाम्। [Page4549-a+ 33] छत्रदण्डवदुन्नेयः काष्ठजाया विनिश्चयः। कनकं रजतंताम्रं पित्तलं सीसकं तथा। लौहं सर्वञ्च सर्वार्द्धमादि-त्यादिदशाभुवाम्। राज्ञामेवोपयुज्येत कालकीर्त्ति-प्रसाधनी। मृगाणां महिषाणाञ्च शृङ्गजाता प्रसा-धनी। गजदन्तसमद्भूता राज्ञामेवोपयुज्यते। अत्रापिरत्नविन्यासो ज्ञेयश्चामरदण्डवत्”
४५
०४ पृष्ठस्थप्राकृतशब्दस्य परिशिष्टम्प्राकृतभाषा च अष्टादशभाषामध्ये भाषाभेदः। ताश्चाष्टादश सा॰ द॰ उक्ता यथा
“पुरुषाणामनीचानां सं-स्कृता
१ स्यात् कृतात्मनाम्। शौरसेनी
२ प्रयोक्तव्यातादृशीनाञ्च योषिताम्। आसामेव तु गाथासु महा-राष्ट्रीं
३ प्रयोजयेत्। अत्रोक्ता मागधी
४ भाषा राजान्ताः-पुरचारिणाम्। चेटानां राजपुत्राणां श्रेष्ठिनां चार्द्र-मागधी
५ । प्राच्या
६ विदूषकादीनां धूर्त्तानां स्यादवन्तिका
७ । योधनागरिकादीनां दाक्षिणात्या
८ हि दीव्य-ताम्। शकाराणां शकादीनां शाकारीं
९ सम्प्रयोजयेत्। बाह्लीकषाषा
१० दिव्यानां द्राविडी
११ द्रविडादिषु। आभीरेषु तथाभीरी
१२ चाण्डाली
१२ पुक्कसादिषु। आभीरी शावरी
१४ चापि काष्ठपत्रोपजीविषु। तथैवा-ङ्गारकारादौ पैशाची
१५ स्यात् पिशाचवाक्। चेटीनाम-प्यनीचानामपि स्यात् शौरमेनिका
१६ । बालानां षण्डकानाञ्च नीचग्रहविचारिणाम्। उन्मत्तानामातुराणांसैव स्यात् संस्कृता क्वचित्। ऐश्वर्य्येण प्रमत्तस्य दारिद्र्यो-पस्कृतस्य च। भिक्षुबन्धरादीनां प्राकृतां
१७ सम्प्रयोज-येत्। संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषुत्तमासु च। देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम्। यद्देशं नीच॰पात्रन्तु तद्देशं तस्य भाषितम्
१८ । कार्य्यतश्चोत्तमा-दीनां कार्य्यो भाषाविपर्य्ययः। योषिन्महीपालवेश्याकितवाप्सरसां तथा। वैदग्ध्याथं प्रदातव्यं संस्कृतं{??}न्तरान्तरा”। तत्तद्भाषालक्षणानि भाषार्णवे दृश्यानि।
४५
२२ पृष्ठस्थ प्रातर्शब्दस्य परिशिष्टं
“प्रहरोऽप्यर्द्धसंयुक्तः प्रातरित्यभिधीयते” नि॰ सि॰ गा-र्म्योक्ते वृद्धिश्राद्धाङ्गे
३ सार्द्धप्रहरात्मके काले। [Page4549-b+ 37] फफकारः पञ्चमवर्गस्य द्वितीयवर्णः स्पर्शवर्णेषु द्वाविंशतितमः। अस्योच्चारणस्य स्थानमोष्ठौ तस्योच्चारणे आभ्यन्तरः प्रयत्नःजिह्वाग्रस्य ओष्ठाभ्यां सह स्पर्शः अतएवास्य स्पर्श-वर्णता। बाह्याः प्रयत्नाः विवारश्वासाघोषाः महा-प्राणश्च। अस्मिन्{??}सर्गस्य स्थाने उपाध्मानीयः ं{??}। तन्त्रे वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा
“फः सुखी दुर्गिणी धूम्रा वामपार्श्वो जनार्दनः। जया पादशिखा रौद्री फेत्कारः शाखिनी प्रियः। इला विहङ्गमः कण्ठः कुब्जिनी प्रियपावकौ। प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी। फुत्कारोयामिनी झञ्झापवनो मोहवर्द्धनः। निष्फलुवागह-ङ्कारः प्रयाणो ग्रामणी फलम्”। तदीशदेवताध्यानंयथा
“प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम्। भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम्। एवं ध्यात्वाफकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम्। अस्य ध्येयस्वरूपं यथा
“फकारं शृणु चार्वङ्गि! रक्तविद्युल्लतोपमम्। चतुर्वर्गप्रदं वरणं पञ्चदेवमयं सदा। पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम्। आत्मादितत्त्वसंयुक्तं त्रिविन्दुसहितं सदा” कामधेनुतन्त्रम्। मात्रका-न्यास्येऽस्य वामपार्श्वे न्यासः। काव्यादावस्य प्रथम-विन्यासफलं पकारशब्दे उक्तं दृश्यम्।
