प्रगल्भः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रगल्भः, त्रि, (प्रगल्भते इति । प्र + गल्भ धार्ष्ट्ये + पचाद्यच् ।) प्रत्युत्पन्नमतिः । तत्पर्य्यायः । प्रतिभान्वितः २ । इत्यमरः । ३ । १ । २५ ॥ (यथा, महाभारते । १२ । ६८ । ५८ । “प्रज्ञा प्रगल्भं कुरुते मनुष्यं राजा कृशान् वै कुरुते मनुष्यान् ॥”)
