प्रग्रहः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रग्रहः, पुं, (प्रगृह्यते इति प्रगृह्णात्यनेनेति वा । प्र + ग्रह + “प्रे वणिजाम् ।” ३ । ३ । ५२ । “रश्मौ च ।” ३ । ३ । ५३ । इति घञभावपक्षे “ग्रह- वृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।) तुलासूत्रम् । अश्वादिरश्मिः । वन्दी । इत्य- मरः । ३ । ३ । २३६ ॥ नियमनम् ॥ (यथा, महाभारते । ३ । १७९ । १६ । “नहि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः । गजोवा महिषो वापि षष्ठे काले नरोत्तम ! ॥”) भुजः । रश्मिः । (यथा, गोलाध्याये । ८ । “इन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रती- च्याम् ॥”) सुवर्णालुमहीरुहः । इति मेदिनी ॥ कर्णिकार- वृक्षः । इति राजनिर्घण्टः ॥ (तत्पर्य्यायो यथा, “आरेवतो राजवृक्षः प्रग्रहश्चतुरङ्गुलः । आरग्वधोऽथ सम्पाकः कृतमालः सुवर्णकः ॥” इति वैद्यकरत्नमालायाम् ॥ प्र + ग्रह + भावे अप् । इन्द्रियादीनां निग्रहः । यथा, हरिवंशे भविष्यपर्व्वणि । ८ । ७८ । “व्यर्थो हि केवलं तस्य प्रग्रहो वाह्यगोचरः । तस्मात् सर्व्वप्रयत्नेन चित्तं रक्ष जनार्द्दन ! ॥” धारणम् । यथा, हरिवंशे भविष्यपर्व्वणि । २२ । ४ । “उद्धवोऽथ महाबुद्धिरुग्रसेनो महाबलः । अन्ये च यादवाः सर्व्वे कवचप्रग्रहे रताः ॥” अवलम्बनम् । यथा, हरिवंशे । ४१ । १६९ । “नृपेष्वथ प्रनष्टेषु जगत्यप्रग्रहाः प्रजाः । क्षणेन निर्वृते चैवं हत्वा चान्योन्यमाहवे ॥ परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः । एवं कष्टमनुप्राप्ताः कलिसन्ध्यांशके तदा ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ९४ । “प्रग्रहो निग्रहो व्यग्रोऽनेकशृङ्गो गदाग्रजः ॥” प्रकृष्टाधिष्ठानादौ, त्रि । यथा, रामायणे । २ । ८२ । १ । “तामार्य्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् । ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रां निशामिव ॥” “प्रग्रहा प्रकृष्टैर्व्वशिष्ठादिभिर्ग्रहोऽधिष्ठानं यस्यां सा ।” इति तट्टीका ॥ उद्यतबाहुः । यथा, रामायणे । ७ । ९५ । १४ । “एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः । अभ्यवादयत प्राज्ञस्तमृषिं सत्यशालिनम् ॥”)
