सामग्री पर जाएँ

प्रचण्डः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रचण्डः, पुं, (प्रकर्षेण चण्डः उग्रगुणत्वात् ।) श्वेतकरवीरः । इति मेदिनी ॥ (वत्सप्रीनाम- नृपतेः सुनन्दागर्भजातः पुत्त्रभेदः । यथा, मार्क ण्डेये । ११८ । २ । “वलीवलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ॥”)

प्रचण्डः, त्रि, (प्रकर्षेण चण्डः ।) दुर्व्वहः । दुर्धर्षः । प्रगल्भः । (यथा, आर्य्यासप्तशत्याम् । ३३० । “नाहं वदामि सुतनु त्वमशीला वा प्रचण्ड- चरिता वा । प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य ॥”) प्रतापी । इति मेदिनी नानार्थरत्नमाला च ॥ (यथा, भागवते । १ । ७ । २१ । “ततः प्रादुष्कृतं तेजः प्रचण्डं सर्व्वतोदिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रचण्डः&oldid=150529" इत्यस्माद् प्रतिप्राप्तम्