प्रचलाकी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रचलाकी, [न्] पुं, (प्रचलाकः शिखण्डोऽस्या स्तीति । प्रचलाक + इनिः ।) मयूरः । इति मेदिनी ॥ (यथा, उत्तररामचरिते । २ अङ्के । “कूजत्कुञ्जकुटीरकौशिकघटाघुत्कारवत्- कीचक- स्तम्बाडम्बरमूकमौकुलिकुलक्रौञ्चावतोऽयं गिरिः । एतस्मिन् प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै- रुद्वेल्लन्ति पुराणचन्दनतरुस्कन्धेषु कुम्भीनसाः ॥”)
