प्रचारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रचारः, पुं, (प्रचरणमिति । प्र + चर + भावे घञ् ।) प्रचरणम् । व्यक्तः । प्रकाशः । यथा, “दमनकतरुशाखालम्बिछोलङ्गयुग्मं तुहिनकिरणविम्बे खञ्जरीटप्रचारः ॥” इति शङ्कराचार्य्यः ॥ (प्रचरत्यस्मिन्निति । प्र + चर + आधारे घञ् । गवादेश्चरणस्थानम् । यथा, महाभारते । १ । ४० । १८ । “परिश्रान्तः पिपासार्त्त आससाद मुनिं वने । गवां प्रचारेष्वासीनं फेनमापिबतां पयः ॥” अश्वानां नेत्ररोगविशेषः । तच्चिकित्सादिकं यथा, अश्ववैद्यके । ३० । ३१ -- ३६ । “प्रच्छादयति यद्दृष्टिं मांसं पर्य्यन्तवर्ज्जितम् । प्रचारकाख्यं तं विन्द्यात् नेत्ररोत्रं कफात्मकम् ॥ क्षितौ निपात्य तुरगं ततो नेत्रं प्रसारयेत् । कृतकर्म्मा भिषग् विद्बान् वडिशेनाक्षिवर्त्मनि ॥ ततस्तीक्ष्णेण शस्त्रेण छिन्द्यात् प्रावरकं बुधः । तारकस्य यथा पीडा जायेत न मनागपि ॥ शुद्धं तत् पूरयेन्नेत्रं मधुना सैन्धवेन वा । प्रक्षाल्य चोत्थाय ततः शङ्खजां वेधयेत् शिराम् । कुष्ठेन वचया चव्या तथा त्रिकटुकेन च । प्रतिपानं प्रदातव्यं सुरया लवणैः सह ॥ निर्व्वातं विहितं स्थानं ग्रासे दूर्व्वा च पूजिता । गुरुभक्ष्यं न दातव्यं मधुरञ्च विशेषतः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रचारः [pracārḥ], 1 Going forth, ranging, walking about, wandering; शान्तमृगप्रचारम् (काननम्) Ku.3.42.
Appearance, coming in, manifestation; U.1; Mu.1.
Currency, prevalence, use, being used or applied; विलोक्य तैरप्यधुना प्रचारम् Trik.
Conduct, behaviour; Mb.12.171.15; cf. अध्यक्षप्रचारः (a title of the second book of Arthaśāstra.)
Custom, usage.
A playground, place of exercise.
A pasture-ground, pasturage; गवां प्रचारेष्वासीनम् Mb.1.4.17; ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा Y.2.166.
A passage, path; योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते Ms.9.219.
Proclamation in public; प्रचारे चापघोषयेत्... Kau. A.2.8.26.
Movement, activity (संचार); प्रचारं स तु संगृह्य Rām.7.35.49.
