प्रचुरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रचुरम्, त्रि, (प्रचोरतीति । प्र + चुर + “इगुपध- ज्ञेति ।” ३ । १ । १३५ । इति कः । यद्वा, प्रगत- ञ्चुराया इति प्रादिसमासः ।) अनेकम् । तत्- पर्य्यायः । प्रभूतम् २ प्राज्यम् ३ अदभ्रम् ४ बहुलम् ५ बहु ६ पुरुहम् ७ पुरु ८ भूयिष्ठम् ९ स्फिरम् १० भूयः ११ भूरि १२ । इत्यमरः । ३ । १ । ६३ ॥ (यथा, भागवते । ५ । १३ । २१ । “अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् । न यत् हृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः ॥”)
