प्रचेतास्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रचेताः, [स्] पुं, (प्रचेततीति । प्र + चित + असुन् ।) वरुणः । इत्यमरः । १ । १ । ६४ ॥ (यथा, रघौ । १ । ८० । “हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः । भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥” मुनिविशेषः । (यथा, मनौ । १ । ३५ । “मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च ॥” प्रकृष्टं चेतोऽस्य ।) प्रकृष्टहृदि, त्रि । इति मेदिनी ॥ प्राचीनवर्हिराजपुत्त्रः । यथा, -- “प्राचीनवर्हिर्भगवान् सर्व्वशस्त्रभृतांवरः । समुद्रतनयायां वै दश पुत्त्रानजीजनत् ॥ प्रचेतसस्ते विख्याता राजानः प्रथितौजसः ॥” इति कौर्म्मे १२ अध्यायः ॥ अपि च । “प्राचीनवर्हिस्तत्पुत्त्रः पृथिव्यामेकराड्बभौ । उपयेमे समुद्रस्य लवणस्य स वै सुताम् ॥ तस्मात् सुषाव सामुद्री दश प्राचीनवर्हिषः । सर्व्वे प्रचेतसो नाम धनुर्व्वेदस्य पारगाः ॥ अपृथग्धर्म्मचरणास्तेऽतप्यन्त महत्तपः । दश वर्षसहस्राणि समुद्रसलिले शयाः ॥ प्रजापतित्वं संप्राप्य भार्य्या तेषाञ्च मारिषा । अभवद्भयशापेन तस्यां दक्षोऽभवत् ततः ॥” इति गारुडे ६ अध्यायः ॥ (पकृष्टज्ञानयुक्ते, त्रि । यथा, ऋग्वेदे । २ । २३ । २ । “देवाश्चित् ते असुर्य्यप्रचेतसो बृहस्पते यज्ञियं भागमानशुः ॥” “हे बृहस्पते ! प्रचेतसः प्रकृष्टज्ञानास्ते त्वदीया देवाश्चिद् देवा अपि ।” इति तद्भाष्ये सायनः ॥)
