प्रच्छ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रच्छ, औ श ज्ञीप्से । इति कविकल्पद्रुमः ॥ (तृदा०-पर०-द्विक०-अनिट् ।) ज्ञीप्सा ज्ञातु- मिच्छा । ज्ञप क्म इत्यस्यैव ज्ञानपक्षे निष्पाद- नात् । औ, अप्राक्षीत् । श, पृच्छति वार्त्तां गुरुं शिष्यः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रच्छ¦ जिज्ञासायां तु॰ पर॰ द्विक॰ अनिट्। पृच्छति अप्राक्षीत्। पप्रच्छ। द्विकर्मकत्वेन दुहादि॰ गोणे कर्मणि लकारादि। पृच्छ्यते शिष्येण गुरुः धर्मं, जिज्ञासाविषयकज्ञानानु-कूलव्यापारः कथं धर्म आचरितव्य इमित्यभिलापादिःपृच्छेरर्थः, ज्ञानविषयत्वेन धर्मस्य, तज्ज्ञानाश्रयत्वाच्चगुरोः कर्मत्वम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रच्छ(औ)प्रच्छौ¦ r. 6th cl. (पृच्छति)
1. To ask or inquire.
2. To desire, to know. With अनु to question about; with आ
1. To ask.
2. To take leave of. With परि to ask.