प्रजनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रजनः, पुं, (प्रजायतेऽनेनेति । प्र + जन् + करणे घञ् । “जनिवध्योश्च ।” ७ । ३ । ३५ । इति न वृद्धिः ।) उपसरः । इत्यमरः । ३ । २ । २५ ॥ द्वे स्त्रीगव्यादिषु पुङ्गवादीनां प्रथमगर्भाधानाय मैथुनाभियोगः । प्रजनं क्लीवमिति केचित् ॥ पशूनां गर्भग्रहणकालः । इति स्वामी ॥ गवां प्रथमगर्भग्रहणाभियोगः । इति सुभूतिः ॥ स्त्रीगवीषु पुङ्गवानां प्रथमगमनमिति सर्व्वस्वम् ॥ किन्तु वीनामुपसरं दृष्ट्वेति भट्टिः । इत्यमर- टीकायां भरतः ॥ (मैथुनसाधनोपस्थेन्द्रियम् । यथा, मनुः । १२ । १२१ । “वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥” प्र + जन् + भावे घञ् । पुत्त्रोत्पादनम् । यथा, मनुः । ९ । १२१ । “उपसर्ज्जनं प्रधानस्य धर्म्मतो नोपपद्यते । पिता प्रधानं प्रजने तस्माद्धर्म्मेण तं भजेत् ॥” जनयितरि, त्रि । यथा, भागवते । ८ । ५ । ३४ । “ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥” तथा, भगवद्गीतायाम् । १० । २८ । “प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रजनः [prajanḥ], 1 Impregnating, begetting, generating, production; अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते Mb.13.46.4; T. Up.1.9.1; Ms.3.61;9.61.
The impregnation of cattle.
Bringing forth, bearing; प्रजनार्थं स्त्रियः सृष्टाः Ms.9.96.
A generator, progenitor; प्रजनश्चास्मि कन्दर्पः Bg.1.28.
The generative organ; प्रजने च प्रजापतिम् (सन्निवेशयेत्) Ms.12.121.
प्रजनः [prajanḥ], f. The vulva (Ved.).
