प्रजाता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रजाता, स्त्री, (प्रजातं प्रजननं सुतादीनामुत्पत्ति- रित्यर्थः । तदस्या अस्तीति । अच् । ततष्टाप् ।) जातापत्या । प्रसूता । इत्यमरः । २ । ६ । १६ ॥ (यथा, सुश्रुते निदानस्थाने ९ अध्याये । “स्त्रीणामपप्रजातानां प्रजातानां तथाहितैः । दाहज्वरकरो घोरो जायते रक्तविद्रधिः ॥” “ततोऽनन्तरं बलवत्तरमिति तस्याञ्च प्रवाह- माणायां स्त्रियः शब्दं कुर्य्युः प्रजाता प्रजाता धन्यं धन्यं पुत्त्रमिति तथास्या हर्षेणाप्यायन्ते प्राणाः । यदा च प्रजाता स्यात् तदैनामवेक्षेत काचिदस्या अमरा प्रपन्ना वाप्रपन्ना वेति ॥” इति चरके शारीरस्थाने ऽष्टमेऽध्याये ॥ अश्वविशेषे, पुं । यथा, कात्यायनश्रौतसूत्रे । २० । ३ । २० । “प्रजाते वायव्यम् ।” “वडवायां कृतरेतःस्कन्दनः प्रजात इत्युच्यते ॥” इति तद्भाष्यम् ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रजाता स्त्री।
प्रसूता
समानार्थक:जातापत्या,प्रजाता,प्रसूता,प्रसूतिका
2।6।16।2।2
वीरपत्नी वीरभार्या वीरमाता तु वीरसूः। जातापत्या प्रजाता च प्रसूता च प्रसूतिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रजाता¦ स्त्री प्रजातं प्रजननं गर्भमोचनमस्त्यस्याः अर्श आ-द्यच्।
१ प्रसूतायां स्त्रियाम् हला॰। प्र + जन--क्त। प्रकर्षोण
३ जाते त्रि॰।
३ अश्वभेदे पु॰
“बडवायां कृत-रेतस्कन्दनः प्रजात इत्युच्यते” कात्या॰ श्रौ॰
२०
३ ।
२० भाष्यम्
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रजाता¦ f. (-ता) A woman who has born a child. E. प्र before, जात born, (from whom.)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रजाता/ प्र- f. a woman who has borne a child S3rS. MBh. etc. (See. ऋत-).