प्रजापतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रजापतिः, पुं, (प्रजानां पतिः ।) ब्रह्मा । इत्य- मरः । १ । १ । १७ ॥ (यथा, महाभारते । १ । १ । ३२ । “यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्म्मनुः कः परमेष्ठ्यथ ॥”) दक्षादिः । (यथा, -- “द्वितीये हि युगे सर्व्वमक्रोधव्रतमास्थितम् । दिव्यं सहस्रवर्षाणामसुरा अभिदुद्रुवुः ॥ तपोविघ्नं शमीकर्त्तुन्तपोविघ्नं महात्मनाम् । पश्यन् समर्थश्चोपेक्षाञ्चक्रे दक्षः प्रजापतिः ॥ पुनर्माहेश्वरं भागं ध्रुवं दक्षप्रजापतिः । प्रायो न कल्पयामास प्रोच्यमानः सुरैरपि ॥” इति चरके चिकित्सास्थाने तृतीयेऽध्याये ॥) महीपालः । इति मेदिनी । ते, २०८ ॥ (इन्द्रः । यथा, महामारते । ३ । १८५ । १६ । “अयमेव विधाता हि तथैवेन्द्रः प्रजापतिः ॥”) जामाता । दिवाकरः । वह्निः । त्वष्टा । इति हेम- चन्द्रः ॥ (यथा, वाजसनेयसंहितायाम् । १२ । ६१ । “तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्म्मा विमुञ्चतु ॥” मनुः । यथा, मनौ । १० । ७८ । “न तौ प्रति हि तान् धर्म्मान् मनुराह प्रजा- पतिः ॥”) दश प्रजापतयो यथा, आह्रिकतत्त्वे । “मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च । देवान् सर्व्वानृषीन् सर्व्वांस्तर्पयेदक्षतोदकैः ॥” एकविंशतिप्रजापतयो यथा, -- “ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्म्मस्तथा व्यमः । मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ॥ वशिष्ठः परमेष्ठी च विवस्वान् सोम एव च । कर्द्दमश्चापि यः प्रोक्तः क्रोधोऽर्व्वाक् क्रीत एव च ॥ एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ॥” इति महाभारते मोक्षधर्म्मः ॥ * ॥ पिता । यथा, -- “जनको जन्मदानाञ्च रक्षणाच्च पिता नृणाम् । ततो विस्तीर्णकरणात् कलया स प्रजापतिः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥ * ॥ स्वनामख्यातकीटविशेषश्च ॥
