प्रज्ञः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रज्ञः, त्रि, (प्रकर्षेण जानातीति । प्र + ज्ञा + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।) पण्डितः । इति प्राज्ञशब्दटीकायां भरतः ॥ (यथा, माण्डूक्योपनिषदि । ७ । “नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ॥”) प्रगतजानुकः । इति प्रज्ञुशब्दटीकायां भरतः धरणिश्च ॥
