सामग्री पर जाएँ

प्रज्ञानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रज्ञानम्, क्ली, (प्रज्ञायतेऽनेनेति । प्र + ज्ञा + ल्युट् ।) बुद्धिः । (यथा, महाभारते । ३ । १८५ । १६ । “त्वमेव मुह्यसे मोहात् न प्रज्ञानं तवास्ति ह ॥”) चिह्रम् । इत्यमरः । ३ । ३ । ११२ ॥ (यथा, महा- भारते । ५ । ३३ । २६ । “नासं पृष्टो ह्युपयुक्ते परार्थे तत् प्रज्ञानं पथमं पण्डितस्य ॥” चैतन्यम् । तल्लक्षणं यथा, पञ्चतन्त्रे । ५ । १ । “येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च । स्वाद्वसादू विजानाति तत् प्रज्ञानमुदीरितम् ॥”) पण्डिते, त्रि । इति भरतद्विरूपकोषः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रज्ञानम्&oldid=150617" इत्यस्माद् प्रतिप्राप्तम्