सामग्री पर जाएँ

प्रणादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रणादः, पुं, (प्रणदनमिति । प्र + णद + घञ् ।) अनुरागजशब्दः । इत्यमरः । १ । ६ । ११ ॥ “प्रीतिजनितो मुखकण्ठादिशब्दः । प्रीतिजं शीत्कृतम् । ‘अनुरागकृते शब्दे प्रणादः शीत्कृतं नृणाम् ।’ इति शब्दार्णवः ॥ गुणा- नुरक्तलोकप्रभवः शब्दः । इति मधुमाधवः । अनुरागजन्मा जनशब्दः । इति कलिङ्गः ।” इत्यमरटीकायां भरतः ॥ तारशब्दः । (यथा, रामायणे । २ । ३८ । २ । “तेन तत्र प्रणादेन दुःखितः स महीपतिः । चिच्छेद जीविते श्रद्धां धर्म्मे यशसि चात्मनः ॥”) श्रवणामयः । इति मेदिनी । दे, ३६ ॥ शेषस्य नामान्तरं कर्णनादः । यथा, -- “कर्णस्रोतःस्थिते वाते शृणोति विविधान् स्वरान् । भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ॥” इति माधवकरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रणादः [praṇādḥ], 1 A loud noise, shout, cry; यियासतस्तस्य मही- ध्ररन्ध्रभिदापटीयान्पटहप्रणादः Śi.3.24.

Roaring, a roar.

Neighing, braying.

A murmur of rapture; a burst of applause; huzza.

A cry for help.

A particular disease of the ear (a buzzing sound in the ear).

"https://sa.wiktionary.org/w/index.php?title=प्रणादः&oldid=331965" इत्यस्माद् प्रतिप्राप्तम्