सामग्री पर जाएँ

प्रतिकर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतिकर्म्म, [न्] क्ली, (प्रत्यङ्गं प्रतिख्यातं वा कर्म्म । शाकपार्थिवादिवत् समासः ।) प्रसा- धनम् । वेशः । इत्यमरः । २ । ६ । ९९ ॥ (यथा, माघे । ५ । २७ । “आस्तीर्णतल्परचितावसथः क्षणेन वेश्याजनः कृतनवप्रतिकर्म्मकाम्यः ॥” प्रतीकारः । यथा, महाभारते । ४ । ५६ । १८ । “उषिताः स्मो वने वासं प्रतिकर्म्मचिकीर्षवः । कोपं नार्हसि नः कर्त्तुं सदा समरदुर्ज्जय ! ॥” अङ्गसंस्कारः । इति क्वचिदमरे । २ । ६ । १२१ ॥)

"https://sa.wiktionary.org/w/index.php?title=प्रतिकर्म्म&oldid=150693" इत्यस्माद् प्रतिप्राप्तम्