सामग्री पर जाएँ

प्रतिक्षिप्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतिक्षिप्तः, त्रि, (प्रतिक्षिप्यते स्मेति । प्रति + क्षिप + क्तः ।) वारितः । प्रेषितः । इति मेदिनी । ते, २०५ ॥ अधिक्षिप्तः । इत्यमरः । ३ । १ । ४२ ॥ “द्बे कृताधिक्षेपे । स्पर्द्धया पर- गुणं प्रति दुर्व्वचनमधिक्षेपः अधिक्षिप्यते स्म अधिक्षिप्तः क्तः एवं प्रतिक्षिप्तः । कस्यचित् शौर्य्यादिकं प्रति स्पर्द्धमानेन दुर्व्वचनमधिक्षेपः स यस्य कृतः सोऽधिक्षिप्तः । इति मुकुटोऽपि । केचित्तु । द्वे प्रेषिते । आहूय प्रेषितो यस्तु प्रतिक्षिप्तः स उच्यते । इति कृष्णदासः । इत्याहुः ।” इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रतिक्षिप्तः&oldid=150715" इत्यस्माद् प्रतिप्राप्तम्