प्रतिग्रहः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिग्रहः, पुं, (प्रतिग्रहणमिति । प्रति + ग्रह + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति भावे अप् ।) स्वीकरणम् । सैन्यपृष्ठम् । (प्रति- गृह्णाति निष्ठीवनादिकमिति । प्रति + ग्रह + “विभाषा ग्रहः ।” ३ । १ । १४३ । इति पक्षे अच् ।) पतद्ग्रहः । (प्रतिगृह्यते इति । प्रति + ग्रह + अप् ।) द्विजेभ्यो विधिवद्देयम् । तद्- ग्रहः । ग्रहभेदः । इति मेदिनी । हे, ३१ ॥ * ॥ ब्राह्मणस्यार्थः प्रतिग्रहार्ज्जितः । यथा, -- “प्रतिग्रहार्जिता विप्रे क्षत्त्रिये शस्त्रनिर्जिताः । वैश्ये न्यायार्जिताश्चार्थाः शूद्रे शुश्रूषयार्जिताः ॥” अयाचितप्रतिग्रहे दोषाभावो यथा, -- “अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे । अमृतं तं विदुर्द्देवास्तस्मात्तन्नैव निर्णुदेत् ॥ * ॥ गुरुभृत्यांश्चोज्जिहीर्षुरर्च्चिष्यन् देवतातिथीन् । सर्व्वतः प्रतिगृह्णीयात् न तु तृप्येत् स्वयं ततः ॥ साधुतः प्रतिगृह्णीयादथवासाधुतो द्विजः । गुणवानल्पदोषश्च निर्गुणो हि निमज्जति ॥ एवं तस्करवृत्त्या वा कृत्वा भरणमात्मनः । कुर्य्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः ॥” इति गारुडे २१५ अध्यायः ॥ * ॥ तीर्थे प्रतिग्रहनिषेधो यथा, -- “सुवर्णमथ युक्तात्मा तथैवान्यप्रतिग्रहम् । स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा ॥ निष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते । अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥” इति कौर्म्मे ३३ अध्यायः ॥ * ॥ राजादितः प्रतिग्रहनिषेधो यथा, -- “न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादपि । न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद- बुधः ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥ विद्यारहितस्य प्रतिग्रहनिषेधो यथा, -- “हेम भूमिं तिलान् गाश्च अविद्वानाददाति यः । भस्मीभवति सोऽह्नाय दातुः स्यान्निष्फलञ्च तत् ॥ “प्रतिग्रहं समर्थो हि कृत्वा विप्रो यथाविधि । निस्तारयति दातारमात्मानञ्च स्वतेजसा ॥” स्कान्दे । “वेदाङ्गपारगो विप्रो यदि कुर्य्यात् प्रतिग्रहम् । न स पापेन लिप्येत पद्मपत्रमिवाम्भसा ॥” महाभारते । “तीर्थे न प्रतिगृह्णीयात् पुण्येष्वायतनेषु च । निमित्तेषु च सर्व्वेषु न प्रमत्तो भवेन्नरः ॥” प्रतिग्रहसमर्थस्य तदकरणे फलाधिक्यं यथा । याज्ञवल्क्यः । “प्रतिग्रहसमर्थो हि नादत्ते यः प्रतिग्रहम् । ये लोका दानशीलानां स तानाप्नोति पुष्क- लान् ॥” अपवादमाह स एव । “कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥” अन्यच्च । “शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि । मत्स्यान् धानाः पयो मांसं शाकञ्चैव न निर्णुदेत् ॥” मणीन् विषादिनिवारकान् । “एधोदकं फलं मूलमन्नमभ्युद्धृतञ्च यत् ॥” अभ्युद्धृतमभ्यर्थ्य दत्तम् । “सर्व्वतः प्रतिगृह्णीयात् मध्वथोभयदक्षिणाम् ॥” किमिति न प्रत्याख्येयमित्याह मनुः । “अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः । अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विषः ॥” प्रतिग्रहमात्रे प्रयोगसारे । “प्रतिग्रहं न गृह्णीयादात्मभोगविधित्सया । देवतातिथिपूजार्थं यत्नाद्धनमुपार्ज्जयेत् ॥” अङ्गिराः । “कुटुम्बार्थे द्बिजः शूद्रात् प्रतिगृह्णीत याचितम् । क्रत्वर्थमात्मने चैव न हि याचेत कर्हिचित् ॥” यज्ञार्थं याचने निन्दामाह याज्ञवल्क्यः । “चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ॥” इति शुद्धितत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिग्रहः [pratigrahḥ], 1 Receiving, accepting.
Receiving or accepting a donation; अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे
The right of receiving or accepting a donation.
The right of receiving gifts (which is a peculiar prerogative of Brāhmaṇas); अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ Ms.1.88;4.86; Y.1.118
A gift, present, donation; राज्ञः प्रतिग्रहो$यम् Ś.1; Śi.14.35.
A receiver (of a gift).
Kind or friendly reception; प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् Mb.1.27.12.
Favour, grace.
Marrying; तत्प्रतिग्रहलाभाय जित्वा भूपान् स्वयंवरे Bm.1.456.
Listening to.
The rear of an army.
A spitting-pot.
The sun near the moon's node.
a chambervessel (for sick persons).
a grasper, seizer; केश- प्रतिग्रहः = barber.
