प्रतिनिधिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिनिधिः, पुं, (प्रतिनिधीयते सदृशीक्रयते इति । प्रति + नि + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) प्रतिमा । इत्यमरः । २ । १० । ३६ ॥ सदृशः । (यथा, रघौ । १ । ८१ । “सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥”) तस्य विवेचनं यथा । “अत्यन्तासामर्थेषु स्कन्द- पुराणम् । ‘पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥’ गरुडपुराणे । ‘भार्य्या भर्त्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा । असामर्थ्ये तयोस्ताभ्यां व्रतभङ्गो न जायते ॥’ वराहपुराणे । ‘पितृमातृपतिभ्रातृश्वश्रूगुर्व्वादिभूभुजाम् । अदृष्टार्थमुपोषित्वा स्वयञ्च फलभागभवेत् ॥’ अत्रैव विषये कात्यायनः । ‘दक्षिणा नात्र कर्त्तव्या शुश्रूषा विहिता च या ।’ ननु प्रतिनिधौ ममेह शर्म्माद्यङ्गमन्त्रस्थफलं कुत्रान्वेति चेत् प्रधान एव । तथा च शारी- रिकभाष्ये श्रुतिः । ‘यां वै काञ्चनयज्ञऋत्विज आशिषमाशासते यजमानायैव तामाशासते इति होवाच इति ।’ ब्राह्मणसर्व्वस्वे तु यज- मानायेत्यादौ यजमानस्यैव सेतिं पाठे विशेषः । तथा च सरलायां सूत्रम् । ‘यां वै काञ्चनयज्ञ- ऋत्विगाशिषमाशास्ते सा यजमानस्यैवेति ।’ ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरे आका- ङ्क्षितत्वादिति । अतएव प्रतिनिधिपुत्त्रादिनाप्या- यान्तु नः पितर इत्यादिवदनूह एव पठ्यते वाक्यस्य काल्पनिकत्वात्तत्र न तथेति ॥ * ॥ अत्र प्रतिनिधिप्रसङ्गेन स्मृत्यनुसारात् किञ्चि- ल्लिख्यते । कालमाधवीये । ‘काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिके हि सः । काम्येषूपक्रमादूर्द्ध्वमन्ये प्रतिनिधिं विदुः ॥’ अस्यार्थस्तु माधवाचार्य्येणाभिहितः । यथा नित्यनैमित्तिकं प्रतिनिधिनाप्युपक्रम्य कारयेत् । काम्यन्तु स्वसामर्थ्यं परीक्ष्य स्वयमेव उपक्रम्य कुर्य्यात् । असामर्थ्ये तु उपक्रमादूर्द्ध्वं प्रतिनिधि- नापि तत्कारयेत् । एतच्च काम्यं श्रौतपरम् । काम्यस्मार्त्तन्तु अन्यद्बाराप्युपक्रम्य कुर्य्यात् । तथा च पराशरभाष्ये शातातपः । ‘अभावे चैव धातूनां हरितालं प्रशस्यते । बीजानामप्यलाभे तु यव एको विधीयते ॥ ओषधीनामलाभे तु सहदेवा प्रशस्यते । रत्नानामप्यलाभे तु मुक्ताफलमनुत्तमम् ॥ लौहानामप्यलाभे तु हेमपात्रं प्रकल्पयेत् ।’ लौहानां तैजसमात्राणाम् । न्यायप्राप्तप्रति- निधिमधिकृत्य जैमिनिः । ‘न देवताग्निशब्दक्रियाणामिति ।’ अस्यार्थः । देवताया अग्नेश्च आहवनीयादेः शब्दस्य मन्त्रस्य क्रियायाः प्रजाद्यदृष्टार्थकर्म्मणश्चादृष्ट- मात्रार्थकत्वेन आरादुपकारकत्वान्न प्रति- निधिः । व्रीह्यादीनान्तु सन्निपत्योपकारकाणां पुरोडाशसाधनं दृष्टमेव प्रयोजनमिति तत्र प्रतिनिधिरुचित इत्युक्तम् ।” इत्येकादशी- तत्त्वम् ॥ * ॥ “आरब्धकार्त्तिकादिस्नाने तु व्याध्यादिनासामर्थ्ये पुत्त्रादिभिः प्रतिनिधिना कारयितव्यं नानुकल्पविधिना नित्यस्नान एव तद्विधानादिति ।” इति मलमासतत्त्वम् ॥ * ॥ स्वयंकरणासामर्थ्ये अन्यद्बारा । यथा, -- “दक्षः । ‘स्वयं होमे फलं यच्च तदन्येन न जायते । ऋत्विक् पुत्त्रो गुरुर्भ्राता भागिनेयोऽथ विट्- पतिः । एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥’ विट्पतिर्ज्जामाता । एवञ्च ऋत्विगादीतरत्र फलन्यूनता ॥ * ॥ अत्राशौचाशङ्कया बोधन- दिनात् पूर्ब्बं शुचितत्कालजीवित्वरूपाधिकारा- भावेऽपि यद्वरणादिकं क्रियते तत् कर्म्मकाले तस्य नारदोक्तस्वयं प्रवर्त्तनवत् प्रवर्त्तनाय न तु तदार्नीं प्रतिनिधीयते । अथवा । ‘निःक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा । प्रवसेत् कार्य्यवान् विप्रो वृथैव न चिरं वसेत् ॥’ इति छन्दोगपरिशिष्टवदन्यत्रापि प्रतिनिधी- यते । एवं वरणं विनापि क्वचिद्यदि ऋत्विक् प्रवर्त्तते तथापि तत्कर्म्मसिद्धिः । दक्षिणा च तस्मै शुचिकाले दातव्येति । तथा च नारदः । ‘ऋत्विक् च त्रिविधो दृष्टः पूर्ब्बैर्जुष्टः स्वयंकृतः । यदृच्छया वा यः कुर्य्यादार्त्विज्यं प्रीतिपूर्ब्बकम् ॥’ यदृच्छया स्वेच्छया ।” इति तिथ्यादितत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिनिधिः [pratinidhiḥ], 1 A representative, substitute; सो$भवत् प्रतिनिधिर्न कर्मणा R.11.13;1.81;4.54;5,63;9.4. अल्लीशाहात् प्रतिनिधिं तस्य शैलस्य सर्वथा Śiva B.28.4.
A deputy, vicegerent.
Substitution.
A surety.
An image, likeness, picture.
