प्रतिपक्षित
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिपक्षित¦ पु॰ प्रतिपक्षो जातोऽस्य तारका॰ इतच।
१ सत्-प्रतिपक्षरूपदोषयुक्ते हेतौ हेत्वाभासभेदे
“अनैकान्तो वि-रुद्धश्चाप्यसिद्धः प्रतिपक्षितः। कालात्ययोपदिष्टश्च हेत्वा-भासाश्च पञ्चधा” भाषा॰।
“सत्प्रतिपक्षे तु प्रतिहेतुः सा-ध्याभावसाधकः। अत्र तु हेतुरेवेति विशेषः। साध्या-भावसाघक एव साध्यासाधकत्व न उषन्यस्त इत्यशक्ति-विशेषोपस्थापकत्वाच्च विशेषः। सत्प्रतिपक्षः साध्याभा-वव्याप्यवान् पक्षः। अगृहीताप्रामाण्यकतया साध्यव्या-प्यवत्त्वेनोपस्थितिकालीनायाः साध्यामावव्याप्यवत्त्वेनो-पस्थितेर्विषयस्तथा इत्यन्ये। अत्र च परस्पराभाव-व्याप्यवत्ताज्ञानात् परस्परानुमितिप्रतिवन्धः फलम्। अत्र केचित् यथा घटाभावव्याप्यवत्ताज्ञाने विद्यमानेऽपिघटचक्षुःसंयोगे सति थटवत्ताज्ञानं जायते। यथा चसत्यपि पीतत्वाभावव्याप्यशङ्खत्ववत्ताज्ञाने पित्तादिदोषेणपीतः शङ्ख इति धीर्जायते एवं कोटिद्वयव्याप्यवत्तादर्शनेकोटिद्वयप्रत्यक्षरूपः संशयो भवति तथा सत्प्रतिपक्षस्थलेसंशयरूपानुमितिर्भवत्येव यत्र चैककोटिव्याप्यदर्शनं तत्रा-धिकवलतया द्वितीयकोटिभानप्रतिबन्धान्न संशयः फल-यलेन चाधिकसमबलाभावः कल्प्यते इति वदन्ति। तन्नतदभावव्याप्यवत्ताज्ञाने मति तदपनीतभावविशेषशाब्द-योधादेरनुदयात् लौकिकसन्निसर्षाजन्यदोषविशेषाजन्य-ज्ञानमात्रे तस्य प्रतिबन्धकता लाधवात्। न तूपनीत-भावविशेषे शाब्दबोधे च पृथक् प्रतिबन्धकता गौर-वात्। तथा च प्रतिवन्धकसत्त्वात् कथमनुमितिः। नहि लौकिकसन्निकर्षस्थसे प्रत्यक्षमिव सत्प्रतिपक्षस्थले[Page4446-b+ 38] संशयानुमितिः प्रामाणिकी येनानुमितिभिन्नत्वेनापिविशेषणीयम् यत्र कोटिद्वयव्याप्यवत्ताज्ञानं तत्रोभयत्राप्रामाण्यज्ञानात् संशयो नान्यथाऽगृहीताप्रामाणक-स्यैव विरोधिज्ञानस्य प्रतिबन्धकत्वादिति” सि॰ मु॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिपक्षित¦ Adj.
1. Containing a contradiction.
2. Nullified by a contradictory premiss, (as a Hetu.)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिपक्षित/ प्रति--प mfn. containing a contradiction , contradictory Bha1sha1p.
प्रतिपक्षित/ प्रति--प mfn. nullified by a contradictory premiss (one of the 5 kinds of fallacious middle terms) MW.
