प्रतिपत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिपत्, [द्] स्त्री, (प्रतिपद्यते उपक्रम्यते- ऽनयेति । प्रति + पद् + करणे क्विप् ।) द्रगड- वाद्यम् । इति त्रिकाण्डशेषः ॥ बुद्धिः । तिथि- विशेषः । तत्पर्य्यायः । पक्षतिः २ । इत्यमरः । १ । ४ । १ ॥ सा च चन्द्रस्य प्रथमकलाक्रियारूपा । वृद्धिरूपा चेत् शुक्ला १ एकाङ्कबोधिता । ह्रास- रूपा चेत् कृष्णा १७ सप्तदशाङ्कबोधिता ॥ * ॥ तस्या व्यवस्था यथा । “सा च कृष्णा द्वितीया- युक्ता ग्राह्या प्रतिपत् सद्वितीया स्यादित्याप- स्तम्बीयात् । शुक्ला अमावास्यायुता ग्राह्या । प्रतिपदाप्यमावास्येति वचनात् । त्रिसन्ध्यव्यापि- नीत्वे तु सर्व्वत्र न युग्मादरः । तथा च परा- शरः । ‘त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः । न तत्र युग्मादरणमन्यत्र हरिवासरात् ॥’ * ॥ कृष्णापि उपवासे द्वितीयायुता न ग्राह्या । तथा च वृद्धवशिष्ठः । ‘द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी । चतुर्द्दशी चोपवासे हन्युः पूर्ब्बोत्तरे तिथी ॥’ द्वितीया वेधात् योगात् प्रतिपत्तृतीये हन्तीत्यर्थः । एवमन्यत्र । अत्रोपवासपरेण विशेषविधानात् आपस्तम्बीयसामान्यवचनस्य सङ्कोचः ॥ * ॥ कार्त्तिकशुक्लप्रतिपदमधिकृत्य बलिं प्रति भग- वद्वाक्यम् । ‘वीर ! प्रतिपदा नाम तव भावी महोत्सवः । अत्र त्वां नरशाद्र्दूल ! हृष्टाः पुष्टाः स्वलङ्कृताः । पुष्पदीपप्रदानेन पूजयिष्यन्ति मानवाः ॥’ तत्र मन्त्रः । ‘बलिराज ! नमस्तुभ्यं विराचनसुत प्रभो । भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥’ प्रतिपदा प्रतिपत्तिथ्या । अत्र प्रतिपदि । ब्रह्म पुराणे तु बलिराजेतिमन्त्रस्य पूर्ब्बम् । ‘मन्त्रेणानेन राजेन्द्र ! समन्त्री सपुरोहितः ।’ इत्यर्द्धम् ॥ पश्चादपि । ‘एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः ।’ इत्यक्तमिति ॥ पुनर्ब्रह्मपुराणे । ‘शङ्करश्च पुरा द्यूतं ससर्ज सुमनोहरम् । कार्त्तिके शुक्लपक्षे च प्रथमेऽहनि भूपते ! ॥ जितश्च शङ्करस्तत्र जयं लेभे च पार्व्वती । अतोऽर्थाच्छङ्करोदुःखी नित्यं गौरी सुखोषिता ॥ तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः । तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ॥ पराजयो विरुद्धश्च लब्धनाशकरो भवेत् ॥’ द्यूतञ्चाप्राणिभिः क्रीडनम् । यथा मनुः । ‘अप्राणिभियत् क्रियते तल्लोके द्यूतमुच्यते ॥’ * ॥ तत्तिथिमधिकृत्य भविष्योत्तरे । ‘यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! । हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि ॥’ तथा । ‘महापुण्या तिथिरियं बलिराज्यप्रवर्द्धिनी । य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः । अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ॥” इति वराहपुराणे महातपोपाख्याने अग्न्युत्- पत्तिनामाध्यायः ॥ * ॥ प्रतिपदि चन्द्रदर्शन- कारणम् । यथा, ज्योतिषे । “अमावस्याघटीशोध्या षष्ट्याहर्मानसंयुता । सूर्य्यराहुघटीभ्यश्चेदधिका दृश्यते शशी ॥”
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिपत् स्त्री।
प्रतिपत्तिथिः
समानार्थक:पक्षति,प्रतिपत्
1।4।1।2।1
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः। प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः॥
पदार्थ-विभागः : , द्रव्यम्, कालः
प्रतिपत् स्त्री।
बुद्धिः
समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान
1।5।1।2।5
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥
अवयव : वासना
वैशिष्ट्यवत् : निश्चयः
: धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः
पदार्थ-विभागः : , गुणः, बुद्धिः
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिपत्/ प्रति- P. -पतति, to hasten towards , run to meet( acc. ) MBh.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the first among the तिथिस्; फलकम्:F1: Br. II. २४. १४२.फलकम्:/F the first day after the two पर्वस् in the month fit for अन्वाधानक्रिय। फलकम्:F2: Ib. II. २८. ३७.फलकम्:/F
