प्रतिपाल्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिपाल्यम्, त्रि, (प्रति + पा + णिच् + कर्म्मणि यत् ।) प्रतिपालनीयम् । प्रतिपालितव्यम् । प्रतिपूर्व्वञ्यन्तपालरक्षण इत्यस्मात् कर्म्मणि यप्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते । १३ । ४५ । २ । “या पुत्त्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत् । अथचेन्नाहरेत् शुल्कं क्रीता शुक्लप्रदस्य सा ॥”)
