प्रतिप्रसूतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिप्रसूतः, त्रि, (प्रतिप्रसूते स्मेति । प्रति + प्र + सू + क्तः ।) प्रतिप्रसवविशिष्टः । इति मल- मासतत्त्वम् ॥ पुनःसम्भावितः । यथा, -- “उक्तानि प्रतिसिद्धानि पुनःसम्भावितानि च । सापेक्षनिरपेक्षाणि मीमांस्यानीह कोविदैः ॥” इति सत्कृत्यमुक्तावली ॥
