सामग्री पर जाएँ

प्रतिभूः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतिभूः, पुं, (प्रतिरूपः प्रतिनिधिर्वा भवतीति । प्रति + भू + “भुवः संज्ञान्तरयोः ।” ३ । २ । १७९ । इति क्विप् । “धनिकाधमर्णयोरन्तरे यस्ति- ष्ठति विश्वासार्थं स प्रतिभूः ।” इति सिद्धान्त- कौमुदी ॥) लग्नकः । इत्यमरः । २ । १० । ४४ ॥ जामिन् इति पारस्यभाषा ॥ (यथा, प्रद्युम्न- विजये । १ अङ्के । “यश्चैकः प्रतिभूः फलेषु कृतिनां यज्ञेषु यज्ञेश्वरो विघ्नस्तोमतमःसमूहतपनः सोऽयं स्वयं श्रीहरिः ॥”) तस्य कर्त्तव्यत्वं यथा, -- “सभापतेः कर्त्तव्यमाह कात्यायनः । ‘अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनोः । स रक्षितो दिनस्यान्ते दद्याद्भृत्याय वेतनम् ॥’ प्रतिभवति तत्कार्य्ये तद्वद्भवतीति प्रतिभूर्लग्नकः । वादयोग्यः विवादफलस्य साधितधनादिदानस्य दण्डदानस्य च क्षमः । वादिनोः भाषावादिनः उत्तरवादिनश्च । तथा च याज्ञवल्क्यः । ‘उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्णये । प्रतिभुवस्त्वभावे च राज्ञा संज्ञपनं तयोः ॥’ राज्ञा संज्ञपनं दण्डतुल्याधिकरणम् । निर्णयस्य कार्य्ये धनादिदाने राजदन्तादित्वात् कार्य्य- शब्दस्य पूर्ब्बनिपातः । भृत्यस्तद्रक्षको राज- नियुक्तः ।” इति व्यवहारतत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतिभूः [pratibhūḥ], A bail, surety, guarantee; सौभाग्यलाभप्रतिभूः पदानाम् Vikr.1.9; Y.2.1,54; N.14.4; सहग्राहिणः प्रतिभुवः ...... अस्य कर्मच्छेदं वहेयुः Kau. A.2.7.25; यच्च प्रतिभ्वो विभवे$पि शक्ये न प्रार्थयन्ति स्म नराः परेभ्यः Bu. Ch.2.1; यदि मे प्रतिभूश्चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये Bu. Ch.5.34.

"https://sa.wiktionary.org/w/index.php?title=प्रतिभूः&oldid=337318" इत्यस्माद् प्रतिप्राप्तम्