प्रतिमानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिमानम्, क्ली, (प्रतिमीयतेऽनेनेति । प्रति + मि मा वा + ल्युट् ।) प्रतिविम्वम् । वाहित्थस्याधोभागः । इत्यमरः । २ । १० । ३६, २ । ८ । ३९ । “अस्य वाहित्थस्याधोभागो दन्तयोर्मध्यं प्रतिमान- मुच्यते प्रतिमीयते अनेन प्रतिमानं डु मिञ न क्षेपे अनट्मिम्योरिति ङा । प्रतिमानं प्रति- च्छाया गजदन्तान्तरालयोरिति रुद्रः ।” इति भरतः ॥ (यथा, महाभारते । ८ । २८ । २९ । “प्रतिमानेषु कुम्भषु दन्तवेष्टेषु चापरे । निगृहीता भृशं नागाः प्रासतोमर- शक्तिभिः ॥” हस्तिललाटदेशः । इति महाभारतटीकायां नीलकण्ठः । ६ । ४५ । २७ ॥ * ॥ सादृश्यम् । यथा, ऋग्वेदे । १ । ३२ । ७ । “वृष्णो वध्रिः प्रतिमानं बुभूषन् । पुरुत्रा वृत्रो अशयद्व्यस्तः ॥” “प्रतिमानं सादृश्यम् ।” इति तद्भाष्ये सायनः ॥ प्रतिनिधिः । यथा, ऋग्वेदे । ६ । १८ । १२ । “नास्य शत्रुर्न प्रतिमानमस्ति ।” “प्रतिमानं प्रतिनिधिर्नास्ति ।” इति तद्भाष्ये सायनः ॥ * ॥ दृष्टान्तम् । यथा, भागवते । ७ । ४ । ३५ । “यं साधुगाथासदसि रिपवोऽपि सुरा नृप ! । प्रतिमानं प्रकुर्व्वन्ति किमुतान्ये भवादृशाः ॥” तथा च महाभारते । ९ । २ । ३६ । “उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् ॥” धान्यादिपरिमाणनिर्द्धारार्थप्रस्थद्रोणादिकम् । यथा, याज्ञवल्क्ये । २ । १०० । “तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥” मनुसंहितायान्तु । ८ । ४०३ । श्लोके प्रतीमानं इत्येव दृश्यते ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिमानम् [pratimānam], 1 A model, pattern; सो$र्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् Mb.8.9.18.
An image, idol.
Likeness, similitude, similarity; हेरम्बकण्ठरसितप्रतिमानमेति Māl.9.3.
A weight; रत्नसारफल्गुकुप्यानामर्घप्रतिवर्णक- प्रतिमानमानोन्मानावमानभाण्डम् Kau. Ā.2.7.25.
The part of an elephant's head between the tusks and below the वाहित्थ; Mb.8.28.38; also 6.46.29; पृथुप्रतिमानभाग &c. Śi.5.36, Mātaṅga L.5.7;6.8.
A reflection.
A picture.
Ved. An adversary.
