सामग्री पर जाएँ

प्रतिमुक्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतिमुक्तः, त्रि, (प्रतिमुच्यते स्मेति । प्रति + मुच् + क्तः ।) परिहितवस्त्रादिः । इत्यमरः । २ । ८ । ६५ ॥ (परित्यक्तः । यथा, रघुः । ४ । ४३ । “गृहीतप्रतिमुक्तस्य स धर्म्मविजयी नृपः । श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥” बद्धः । यथा, भागवते । ३ । १८ । १० । “न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्यभद्र ॥” प्रतिनिवृत्तः । विच्युतः । यथा, मार्कण्डेये । १५ । १ । “नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥” प्रत्यर्पितः । यथा, रघुः । १६ । ५९ । “तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रतिमुक्तः&oldid=150839" इत्यस्माद् प्रतिप्राप्तम्