सामग्री पर जाएँ

प्रतियत्नः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतियत्नः, पुं, (प्रतियत्यते इति । प्रति + यत् प्रयत्ने + “यजयाचयतरिच्छप्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) लिप्सा । वाञ्छा । उप- ग्रहः । वन्दी । इत्यमरः । ३ । ३ । १०६ ॥ निग्रहादिः । सतो गुणान्तराधानम् । इति भरतः ॥ संस्कारः । इति स्वामी ॥ (यथा, माघे । ३ । ५४ । “सुगन्धितामप्रतियत्नपूर्ब्बां विभ्रन्ति यत्र प्रमदाय पुंसाम् ॥” “यत्र पुरि न प्रतियत्नः संस्कारः पूर्ब्बो यस्या- स्ताम् ।” इति तट्टीकायां मल्लिनाथः ॥) ग्रह- णादिः । इति रामाश्रमः ॥ प्रतिग्रहः । इति मुकुटः ॥ “प्रतियत्नस्तु संस्कारलिप्सोपग्रहणेषु च ॥” इति मेदिनी । ने, १९६ ॥ रचना । इति जटाधरः ॥ प्रयत्नवति, त्रि । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रतियत्नः&oldid=150841" इत्यस्माद् प्रतिप्राप्तम्