प्रतियोगितावच्छेदक
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतियोगितावच्छेदक¦ त्रि॰
६ त॰। येन रूपेण यस्याभावादौ प्रतियोगिता
१ तादृशे धर्मे यथा घटाभावे घटस्यघटत्वरूपेण प्रतियोगिता अतस्तत्र घटत्वं प्रतियोगिता-वच्छेदकं तच्च क्वचित् एकं क्वचिदनेकं तत्र वह्निर्नास्ती-त्यत्र वह्नित्वमेकं महानसीयवह्निर्नास्तीत्यादौ महान-सीयत्वं वह्नित्वञ्चेत्यादिकमनेकमित्याकरे दृश्यम्। येन सम्बन्धेन प्रतियोगितायाः अभावांशे भानं
२ तादृश-सम्बन्धे च यथा संयोगेन घटो नास्तीत्यादौ संयोगेनघटस्याभावांशे प्रतियोगिताभानं तत्र संयोगसम्बन्धःप्रतियोगितावच्छेदकसम्बन्ध एवमन्यत्राप्यूह्यम्।
