सामग्री पर जाएँ

प्रतिरूपम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतिरूपम्, क्ली, (प्रतिगतं प्रतिकृतं वा रूपमिति प्रादिसमासः ।) प्रतिमा । इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ७ । १० । २१ । “भवान् मे खल् भक्तानां सर्व्वेषां प्रतिरूप- धृक् ॥” त्रि, प्रतिगतं रूपमस्य । अनुरूपः । यथा, महाभारते । १ । १०२ । ६१ । “आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । बिचित्रवीर्य्यं कल्याण्यौ पूजयामासतुः शुभे ॥” दानवविशेषे, पुं । यथा, महाभारते । १२ । २२७ । ५१ । “विश्वजित् प्रतिरूपश्च वृषाण्डो विष्करो मधुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रतिरूपम्&oldid=150850" इत्यस्माद् प्रतिप्राप्तम्