सामग्री पर जाएँ

प्रतिलोमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतिलोमः, त्रि, (प्रतिगतं लोम आनुकूल्यं यस्मा- दिति । “अच् प्रत्यन्ववपूर्ब्बात्सामलोम्नः ।” ५ । ४ । ७५ । इति समासान्तोऽच्प्रत्ययः ।) वामः । इति हेमचन्द्रः ॥ (यथा, हरिवंशे । १२७ । १४ । “बहूनि प्रतिलोमानि पुरा स कृतवान् मयि । कृष्णो नारद ! सोढानि भ्रातेतिस्म मयानध ! ॥”) विलोमः । यथा, -- “तावुभावप्यसंस्कार्य्याविति धर्म्मो व्यवस्थितः । वैगुण्याज्जन्मनः पूर्ब्ब उत्तरः प्रतिलोमतः ॥” इति मानवे । ९ । ६८ ॥

"https://sa.wiktionary.org/w/index.php?title=प्रतिलोमः&oldid=150862" इत्यस्माद् प्रतिप्राप्तम्