सामग्री पर जाएँ

प्रतिश्यायः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतिश्यायः, पुं, (प्रतिक्षणं श्यायते इति । प्रति + श्यै + “श्याद्वधास्रुसंम्व्रतीणेति ।” ३ । १ । १४१ । इति णः ।) पीनसरोगः । इत्यमरः । २ । ६ । ५१ ॥ (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये । “पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥” अस्य सकारणलक्षणं सम्प्राप्तिश्च यथा, -- “सन्धारणाजीर्णरजोऽतिभाष्य- क्रोधर्त्तुवैषम्यशिरोऽभितापैः । प्रजागरातिस्वपनाम्बुशीतै- रवश्यया मैथुनवाष्पधूमैः ॥ संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु । घ्राणार्त्तितोदैः श्वयथुर्जलाभः स्रावोऽनिलात् सस्वनमूर्द्ध्वरोगः ॥ नासाग्रपाकज्वरवक्त्रशोष- तृष्णोष्णपीतस्रवणानि पित्तात् । कासारुचिस्रावनयनप्रसेकाः कफाद्गुरुः स्रोतसि चापि कण्डूः ॥ सर्व्वाणि रूपाणि तु सन्निपातात् स्युः पीनसे तीव्ररुजेऽतिदुःखे । सर्व्वोऽतिवृद्धोऽहितभोजनात्तु दुष्टप्रतिश्याय उपेक्षितः स्यात् ॥” इति चरके चिकित्सास्थाने षड्विंशेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=प्रतिश्यायः&oldid=150901" इत्यस्माद् प्रतिप्राप्तम्