प्रतिसूर्य्यक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिसूर्य्यकः, पुं, (प्रतिसूर्य्य + स्वार्थे कन् ।) कृक- लासः । (यथा, उत्तररामचरिते द्वितीयेऽङ्के । “सीमानः प्रदरोदरेषु विलसत्स्वल्पाम्भसो या स्वयं तृष्यद्भिः प्रतिसूर्य्यकैरजगरस्वेदद्रवः पीयते ॥” तद्दष्टस्य चिकित्सा सुश्रुते कल्पस्थाने ८ अध्याये उक्ता । यथा, -- “प्रतिसूर्य्यकदष्टानां सर्पदष्टवदाचरेत् ॥”) उपसूर्य्यकमण्डलम् । इति विश्वः ॥ (अस्य शुभा- शुभलक्षणम् । यथा, बृहत्संहितायाम् । ३७ । १-३ । “प्रतिसूर्य्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः । वैदूर्य्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः ॥ पीतो व्याधिं जनय- त्यशोकरूपश्च शस्त्रकोपाय । प्रतिसूर्य्याणां माला दस्युभयातङ्कनृपहन्त्री ॥ दिवसकृतः प्रतिसूर्य्यो जलकृदुदग्दक्षिणे स्थितोऽनिलकृत् । उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥”)
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिसूर्य्यक¦ m. (-कः)
1. A lizard, a chameleon.
2. The sun's disk. E. प्रति before or about, सूर्य्य the sun, aff. कन् |
