प्रतिहारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतिहारः, पुं, (प्रतिविषयं प्रत्येकं वा हरति स्वामिसमीपमानयतीति । प्रति + हृ + अण् ।) द्वारपालः (यथा, देवीभागवते । १ । १७ । ३० । “ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद् द्विजो- त्तमः ॥” प्रति + हृ + आधारे घञ् ।) द्वारः । इति शब्दरत्नावली ॥ (यथा, रघौ । ६ । २० । “ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक्सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत् सुनन्दा ॥” प्रतिरूपं हरतीति । हृ + अण् ।) माया- कारः । इत्यमरटीकायां भरतः । २ । १० । ११ ॥ (परमेष्ठिनः पुत्त्रः । यथा, विष्णु पुराणे । २ । १ । ३७ । “परमेष्ठी ततस्तस्मात् प्रतिहारस्तदन्वथः ॥”)
