सामग्री पर जाएँ

प्रतीकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतीकः, पुं, (प्रतीयते प्रत्येति वा इति । प्रति + इ + अलीकादयश्चेति ईकन्प्रत्ययेन साधुः ।) एकदेशः । अङ्गम् । (यथा, ऋग्वेदे । ७ । ३६ । १ । “वि सानुना पृथिवी सस्र उर्व्वी पृथु प्रतीक मध्येधे अग्निः ॥” “तथाग्निः पृथु विस्तीर्णं प्रतीकं पृथिव्या अव- यवम् ॥” इति तद्भाष्ये सायनः ॥) स्वाङ्गवाद्य- निषेधो यथा, कौर्म्मे १५ अध्याये । “न स्वाङ्गनखवाद्यं वै कुर्य्यान्नाञ्जलिना पिबेत् ॥” अपि च, लक्ष्मीचरित्रे । “स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशव- स्यापि लक्ष्मीम् ॥” प्रतिकूले, त्रि । इत्यमरः । १ । ६ । ७० ॥ विलोमः । इति मेदिनी । के, ११२ ॥

"https://sa.wiktionary.org/w/index.php?title=प्रतीकः&oldid=150962" इत्यस्माद् प्रतिप्राप्तम्