सामग्री पर जाएँ

प्रतीकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतीकारः, पुं, (प्रतिकरणमिति । प्रति + कृ + घञ् । उपसर्गस्येति पक्षे दीर्घः ।) कृतापकारस्य प्रत्यपकारः । तत्पर्य्यायः । वैरशुद्धिः २ वैर- निर्यातनम् ३ । इत्यमरः । २ । ८ । ११० ॥ (यथा, देवीभागवते । ३ । २५ । ३ । “दुर्गया तौ हतौ संख्ये नापराधो ममात्र बै । अवश्यम्भाविभावेषु प्रतीकारो न विद्यते ॥”) चिकित्सा । इति शब्दमाला ॥

"https://sa.wiktionary.org/w/index.php?title=प्रतीकारः&oldid=150964" इत्यस्माद् प्रतिप्राप्तम्