प्रतीकाशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतीकाशः, पुं, (प्रतिकाशते इति । प्रति + काश् + घञ् । उपसर्गस्य दीर्घः ।) उपमा । इत्यमरः । २ । १० । ३८ ॥ (यथा, महाभारते । १ । १५४ । ३२ । “अद्य त्वां भगिनी रक्षः कृष्यमाणं मयासकृत् । द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥”)
