सामग्री पर जाएँ

प्रतीचीनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतीचीनम्, त्रि, (प्रतीचि भवम् । प्रत्यच् + “विभाषाञ्चेरदिक् स्त्रियाम् ।” ५ । ४ । ८ । इति खः । अल्लोपो दीर्घश्च ।) प्रत्यक् । प्रतीच्यां भवः । इति हेमचन्द्रः । २ । ८२ ॥ (पराङ मुखम् । यथा, ऋग्वेदे । ३ । ५५ । ८ । “शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् ॥” “विश्वं भूतजातं प्रतीचीनं पराङ् मुखं ददृशे ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=प्रतीचीनम्&oldid=150972" इत्यस्माद् प्रतिप्राप्तम्