प्रतीतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतीतः, त्रि, (प्रतीयते स्म प्रत्येकमगाद्वेति । प्रति + इण् + कर्म्मणि कर्त्तरि वा क्तः ।) ख्यातः । इत्यमरः । ३ । १ । ९ ॥ (यथा, रामायणे । २ । ८ । १० । “प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम् । उपस्थास्यसि कौशल्यां दासीवत्त्वं कृता- ञ्जलिः ॥”) सादरः । ज्ञातः । हृष्टः । इति मेदिनी । ते, १२५ ॥ (पुं, विश्वेदेवानामन्यतमः । यथा, महा- भारते । १३ । ९१ । ३२ । “अनुकर्म्मा प्रतीतश्च प्रदाताथांशुमांस्तथा ॥”)
