सामग्री पर जाएँ

प्रतीपम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतीपम्, त्रि, (प्रतिकूला आपो यस्मिन् । “ऋक्- पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अप्रत्ययः । “द्व्यन्तरुपसर्गेभ्योऽप ईत् ।” ६ । ३ । ९३ । इति ईत् ।) प्रतिकूलम् । इति हेम- चन्द्रः । ६ । १०१ ॥ (यथा, भागवते । ३ । १ । १४ । “क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः । तस्मिन् प्रतीपः परकृत्य आस्ते निर्व्वास्यतामाशु पुराच्छ्वसानः ॥” क्ली, अर्थालङ्कारभेदः । तस्य लक्षणादिवं साहित्यदर्पणे १० परिच्छेदे उक्तम् । यथा, -- “प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ क्रमेण उदाहरणं यथा, -- यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरं मेघैरन्तरितं प्रिये ! तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुकूलगतयस्ते राजहंसा गता- स्तत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षन्यते ॥ तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युति- स्तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत् स्मितं का सुधा । धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किंवा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥ अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवह- नात् तेषां निष्फलत्वम् । उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः । कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे ॥ यथा, -- अहमेव गुरुः सुदारुणाना- मिति हालाहल ! तात ! मास्म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्ज्जनानाम् ॥ अत्र प्रथमपादे उत्कर्षातिशय उक्तः । तदनुक्तौ तु नायमलङ्कारः ॥”)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतीपम्¦ It is used as an indeclinable in the sense of “against” as in मा स्म प्रतीपं गमः; secondly “in an inverted order.”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतीपम् क्रि.वि.
विरुद्ध, विरोध के तरीके से, मा.श्रौ.सू. 2.3.2.18 (वसतीवरी)। प्रतृद्य (प्र + तृद् + ल्यप्) (हृदय में शूल) भोंककर, ‘शूले हृदयं प्रतृद्य शामित्रे श्रपयति’, का.श्रौ.सू. 6.7.14 (पशु.)।

"https://sa.wiktionary.org/w/index.php?title=प्रतीपम्&oldid=479440" इत्यस्माद् प्रतिप्राप्तम्