सामग्री पर जाएँ

प्रतीहारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रतीहारः, पुं, (प्रतिह्रियते अत्रेति । प्रति + हृ + घञ । उपसर्गस्य दीर्घः ।) द्वारः । (प्रतिहर- त्यनेनेति । करणे घञ् ।) द्वारपालः । इत्य- मरः । २ । ८ । ६ ॥ तस्य लक्षणम् । यथा, -- “इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥” इति चाणक्यसंग्रहः ॥ अपि च । मात्स्ये १८९ अध्यायः । “प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राहश्च सर्व्वेषां प्रतीहारो विधीयते ॥” सन्धिविशेषः । यथा, हारावली । “मयास्योपकृतं पूर्ब्बमयञ्चोपकरिष्यति । इति यः क्रियते सन्धिः प्रतीहारः स उच्यते ॥”

"https://sa.wiktionary.org/w/index.php?title=प्रतीहारः&oldid=150992" इत्यस्माद् प्रतिप्राप्तम्