प्रत्यक्षम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यक्षम्, त्रि, (प्रतिगतमक्षि इन्द्रियं यत्र । समासे अच् । यद्वा, प्रत्यक्षमस्त्यस्येति । अर्श आदि- त्वात् अच् ।) इन्द्रियग्राह्यम् । तत्पर्य्यायः । ऐन्द्रियकम् २ । इत्यमरः । ३ । १ । ७९ ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । ५२ । “यत्पादपद्मनखरदृष्टये चात्मशुद्धये । न च दृष्टञ्च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥”) अनुभवविशेषः । तत् षड्विधम् । घ्राणजम् १ रासनम् २ श्रावणम् ३ चाक्षुषम् ४ स्पार्श- नम् ५ मानसम् ६ । निर्व्विकल्पकसविकल्पक- भेदेन प्रत्येकं द्विविधम् । निर्व्विकल्पकन्तु अती- न्द्रियम् । सविकल्पकं मनोग्राह्यम् । षड्विध- प्रत्यक्षे आश्रयस्य महत्त्वं कारणम् । इन्द्रियं करणम् । विषयेण सह इन्द्रियसन्निकर्षः । अस्य व्यापारः । यथा, भाषापरिच्छेदे । “घ्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम् । घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः । तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥ उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये । विभागसंयोगपरापरत्व- स्नेहद्रवत्वं परिमाणयुक्तम् ॥ क्रियां जातिं योग्यवृत्तिं समवायञ्च तादृशम् । गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः ॥ उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम् ॥ द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् । मनोग्राह्यं सुखं दुःखमिच्छा द्बेषोमतिः कृतिः ॥ ज्ञानं यन्निर्व्विकल्पाख्यं तदतीन्द्रियमिष्यते । महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥ विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः ॥” (यथा, विद्वन्मोदतरङ्गिण्याम् । “देवानर्च्चय सञ्चय प्रतिदिनं पुण्यानि जन्मा- न्तरे भोगाय प्रयतो महाक्रतुविधौ स्वर्गाय हिंसां कुरु । इत्थं वञ्चकवञ्चनोत्पथगता बुद्धिस्तदेया- चिरा- दप्रत्यक्षपदार्थसार्थरहितं पन्थानमारोहतु ॥” व्य, अक्षि अक्षि प्रतीति वीप्सायां यथार्थत्वेन समासः । अक्ष्णोराभिमुख्यमित्यर्थे । “लक्षणे- नाभिप्रती आभिमुख्ये ।” २ । १ । १४ । इत्य- व्ययीभावः । “अव्ययीभावे शरत्प्रभृतिभ्यः ।” ५ । ४ । १०७ । इत्यत्र “प्रतिपरसमनुभ्यो- ऽक्ष्णः ।” इति टच् । इन्द्रियलक्षणम् । अप- रोक्षम् । यथा, मनुः । ९ । ५२ । “फलन्त्वनभिसन्धाय क्षेत्रिणां बीजिनान्तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गरीयसी ॥”)
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यक्षम्¦ It is used as an indeclinable in the sense of:--
1. In the pre- sence of, before,
2. Publicly.
3. Immediately, directly, personally: also similar words as प्रत्यक्षेण and प्रत्यक्षात् |
