सामग्री पर जाएँ

प्रत्यग्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यग्रः, त्रि, (प्रतिगतमग्रं श्रेष्ठं प्रथमदर्शनं वास्येति ।) नूतनः । इत्यमरः । ३ । १ । ७७ ॥ (यथा, महाभारते । ८ । ३८ । १८ । “दासीनां निष्ककण्ठीनां मागधीनां शतं तथा । प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम् ॥”) शोधितः । इति जटाधरः ॥ (पुं, उपरिचरस्य वसोः पुत्त्राणामन्यतमः । यथा, भागवते । ९ । २२ । ६ । “वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः । कुशाम्बमत्स्यप्रत्यग्राश्चेदिपाद्याश्च चेदिपाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रत्यग्रः&oldid=151022" इत्यस्माद् प्रतिप्राप्तम्