सामग्री पर जाएँ

प्रत्यङ्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यङ्, [ञ्च्] त्रि, (प्रत्यञ्चतीति । प्रति + अनच् + क्विन् ।) पश्चिमदिक् । पश्चिमदेशः । पश्चिम- कालः । प्रतिषूर्ब्बाञ्चधातोः कर्त्तरि विचप्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥ (यथा, शतपथ- ब्राह्मणे । १२ । ८ । २ । ३५ । “ऋतवः सर्व्वे पराञ्चः सर्व्वे प्रत्यञ्चः ॥” प्रतिगतः । अभिमुखः । यथा, ऋग्वेदे । १ । ५० । ५ । “प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । प्रत्यङ् विश्वं स्वर्दृशे ॥” “हे सूर्य्य त्वं देवानां विशो मरुन्नामकान् देवान् । मरुतो वै देवानां विश इति श्रुत्य- न्तरात् । तान् मरुत्संज्ञकान् देवान् प्रत्यङ्ङु- देषि । तान् प्रतिगच्छन्नुदयं प्राप्नोषि । तेषा- मभिमुखं यथा भवति तथेत्यर्थः । तथा मानु- षान् मनुष्यान् प्रत्यङ्ङुदेषि । तेऽपि यथास्म- दभिमुखमेव सूर्य्य उदतीति मन्यन्ते । तथा विश्वं व्याप्तं स्वः स्वर्लोकं दृशे द्रष्टुं प्रत्यङ्ङु- देषि । यथा स्वर्लोकवासिनो जनाः सर्व्वेऽपि स्वस्वाभिमुख्येन सूर्य्यं पश्यन्तीति ।” इति तद्भाष्ये सायनः ॥ अन्तर्यामी । इति श्रीधर- स्वामी ॥ यथा, भागवते । ६ । ९ । २० । “प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यङ् in comp. for त्यञ्च्.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यङ् क्रि.वि.
(प्रति + अञ्च् + क्विन्) (ताकि) पश्चिम में (रखने की प्रक्रिया समाप्त हो जाय, आप.श्रौ.सू. 12.1.1०; (द्रष्टव्य - उदञ्चि अतिग्राह्यपात्राणि, आप.श्रौ.सू. 12.1.15) प्राचीन का उल्टा (विलोम)(रु. प्रत्यगपवर्ग)।

"https://sa.wiktionary.org/w/index.php?title=प्रत्यङ्&oldid=479446" इत्यस्माद् प्रतिप्राप्तम्