प्रत्यङ्गम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यङ्गम्, क्ली, (प्रतिगतमङ्गमिति ।) अवयव- विशेषः । यथा, शब्दचन्द्रिकायाम् । “प्रत्यङ्गं कर्णनासाक्षिलिङ्गाङ्गानिकरादिकम् ॥” (यथा, रामायणे । २ । ७४ । १४ । “अङ्गप्रत्यङ्गजः पुत्त्रो हृदयाच्चापि जायते । तस्मात् प्रियतरो मातुः प्रिया एव तुबान्धवाः ॥” “अतः परं प्रत्यङ्गानि वक्ष्यन्ते । मस्तकोदर- पृष्ठनाभिललाटनासाचिवुकवस्तिग्रीवा इत्येता एकैकाः । कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तन- वृषपार्श्वस्फिग्जानुबाहूरुप्रभृतयो द्वे द्बे विंशति- रङ्गुलयः । स्रोतांसि च वक्ष्यमाणानि । एष- प्रत्यङ्गविभाग उक्तः ॥” इति सुश्रुते शारीर- स्थाने पञ्चमेऽध्याये ॥ अप्रधानम् । यथा, निरुक्ते । ७ । १ । ५ । “एक आत्मा बहुधा स्तूयते एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्त्यपि ॥” अङ्गं अङ्गं प्रति । यथा, गीतगोविन्दे । ११ । ११ । “ध्वान्तं नीलनिचोलचारुसुदृशां प्रत्यङ्गमालि- ङ्गति ॥” तथा च मनुः । ८ । २०८ । “यस्मिन् कर्म्मणि यास्तु स्युरुक्ताः प्रत्यङ्ग- दक्षिणाः । स एव ता आददीत भजेरन् सर्व्व एव वा ॥” नृपविशेषे, पुं, । यथा, महाभारते । १ । १ । २३५ । “महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः । एते चान्ये च राजानः शतशोऽथ सहस्रशः । श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चैव पद्मशः ॥”)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यङ्गम्/ प्रत्य्--अङ्गम् ind. 131970
प्रत्यङ्गम्/ प्रत्य्--अङ्गम् ind. 131971
प्रत्यङ्गम्/ प्रत्य्--अङ्गम् ind. 131972
प्रत्यङ्गम्/ प्रत्य्--अङ्गम् ind. 131973
