सामग्री पर जाएँ

प्रत्यच्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यक् [च्] त्रि, (प्रत्यञ्चतीति । प्रति + अनच् + क्विन् ।) पश्चिमदिक् । पश्चिमदेशः । (यथा, मनुः । २ । २१ । “हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥”) पश्चिमकालः । इति मेदिनी । चे, १६ ॥ (व्य, प्रतीच्यां दिशि प्रतीच्या दिशः प्रतीची दिग्वा एवं देशे काले च । “दिक्शब्देभ्यः सप्तमी- पश्चमीप्रथमाभ्यो दिक्देशकालेष्वस्तातिः ।” ५ । ३ । २७ । इति अस्तातिः । “अञ्चेर्लुक् ।” ५ । ३ । ३० । इति अस्तातेर्लुक् । “लुक् तद्धितलुकि ।” १ । २ । ४९ । इति लुक् । दिक्- देशकाले । इति मेदिनी । चे, १६ ॥ प्रति- लोमम् । यथा, भागवते । ४ । २२ । ३७ । “यः क्षेत्रवित्तपतया हृदि विष्वगाविः प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि ॥” प्रतिकूलम् । यथा, महाभारते । ५ । ८४ । ६ । “प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः । विपरीता दिशः सर्व्वा न प्राज्ञायत किञ्चन ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यच्(ञ्चू)¦ पु॰ प्रत्यञ्चति अन्च--क्विप् विच् वा।

१ खात्मनिप्रत्यागात्मन्शब्दे दृश्यम्।

२ पश्चिमे देशे

३ काले च

४ पश्चि-मायां दिशि स्त्री ङीप् भत्वे अल्लोपे दीर्घः प्रतीची। एवं शसाद्यचि प्रतीचः प्रतीचेत्यादि। विचि तु नलो-पाभावात् न तथा प्रत्यञ्चः प्रत्यञ्चा” इति। ततः सप्तम्यर्थेअसि तस्य लोपः। प्रत्यच्

५ सप्तम्यर्थवृत्तौ पश्चिमदिग्-देशकालादौ अव्य॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रत्यच्¦ or प्रत्यञ्च् mfn. (-प्रत्यङ्-प्रतीची or according to some प्रत्यञ्ची-प्रत्यक्)
1. Behind or subsequent, following in time or place.
2. Turned away.
3. West, western.
4. Uniform, unmixed. E. प्रति before, अञ्च् to go, aff. क्विप् or विच्; the neuter form is used as a particle: see प्रत्यक् |

"https://sa.wiktionary.org/w/index.php?title=प्रत्यच्&oldid=343329" इत्यस्माद् प्रतिप्राप्तम्