प्रत्यनीकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यनीकः, पुं, (प्रतिगतः अनीकं युद्धमिति ।) शत्रुः । इति हेमचन्द्रः । ३ । ३९२ ॥ (प्रति- पक्षः । विरोधी । यथा, महाभारते । ७ । १० । ३६ । “यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः । रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः ॥” यथा च सुश्रुते सूत्रस्थाने ४६ अध्याये । “अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः । तेषु तत्प्रत्यनीकाढ्यं भुञ्जीतप्रातरेव तु ॥” क्ली, प्रतिपक्षसैन्यम् । यथा, भगवद्गीतायाम् । ११ । ३२ । “ऋतेऽपि त्वां न भविष्यन्ति सर्व्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥” अलङ्कारविशेषः । यदुक्तं काव्यप्रकाशे । “प्रतिपक्षमशक्तेन प्रतिकर्त्तुं तिरष्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥” उदाहरणं यथा, -- “त्वं विनिर्ज्जितमनोभवरूपः सा च सुन्दर ! भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥”)
