प्रत्यन्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यन्तः, पुं, (प्रतिगतोऽन्तमिति । अत्यादयः क्रान्ताद्यर्थे । इति समासः ।) म्लेच्छदेशः । इत्य- मरः । २ । १ । ७ ॥ (प्रान्तदुर्गम् । यथा, रघुः । ४ । २६ । “स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः । षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥” “गुप्तौ मूलं स्वनिवासस्थानं प्रत्यन्तः प्राप्तदुर्गञ्च येन सः ।” इति तट्टीकायां मल्लिनाथः ॥ तद्देशजाते, त्रि ॥ यथा, वराहसंहितायाम् । ४ । २१ । “प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतिः शृङ्गे कुजेना- हते ॥”) सन्निकृष्टे च त्रि ॥
